(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.201. अध्यायः 201
Mahabharata - Vana Parva - Chapter Topics
मार्कण्डेयेन पाण्डवान्प्रति नारदेरिताष्टकादिराजतारतम्कथनपूर्वकदानमहिमानुवाद ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text

वैशम्पायन उवाच। 3-201-0x(2438)(23778)
भूय एव महाभाग्यं कथ्यतामित्यब्रवीत्पाण्डवो मार्कण्डेयम् ॥ अथाचष्ट मार्कण्डेयः ॥ अष्टकस्य वैश्वामित्रेरश्वमेधे सर्वे राजानः प्रागच्छन् ॥ 3-201-1(23779)
भ्रातरश्चास्य प्रतर्दनो वमुमनाः शिबिरौशीनर रइति स च समाप्तयज्ञो भ्रातृभिः सह रथेन प्रायात्ते च नारदमागच्छन्तमभिवाद्यारोहतु भवान्रथमित्यब्रुवन् ॥ 3-201-2(23780)
तांस्तथेत्युक्त्वा रथमारुरोह ॥ अथ तेषामेकः सुरर्षिं नारदमब्रवीत् ॥ प्रसाद्य भगवन्तं किंचिदिच्छेयं प्रष्टुमिति ॥ 3-201-3(23781)
पृच्छेत्यब्रवीदृषिः ॥ रसोऽब्रवीदायुष्मन्तः सर्वगुणप्रमुदिताः ॥ अथायुष्मन्तं स्वर्गस्थानं चतुर्भिर्यातव्यं स्यात्कोऽवतरेत् ॥ अयमष्टकोऽवतरेदित्यब्रवीदृषिः ॥ 3-201-4(23782)
किंकारणमित्यपृच्छत् ॥ अथाचष्टाष्टकस्य गृहे मया उपितं स मां रथेनानुप्रावहदथापश्यमनेकानि गोसहस्राणि वर्णशो विविक्तानि तमहमपृच्छं कस्येमा गाव इति सोब्रवीत् ॥ मयानिसृष्टाइत्येतास्तेनैवस्वयं श्लाघति कथितेन ॥ एपोवतरेदथ त्रिभिर्यातव्यं सांप्रतं कोऽवतरेत् ॥ 3-201-5(23783)
प्रतर्दन इत्यत्रवीदृषिः ॥ तत्र किं कारणं प्रतर्दनस्यापि गृहे मयोपितं स मां रथेनानुप्रावहत् ॥ 3-201-6(23784)
अथैनं ब्राह्मणोऽभिक्षेताश्वं मे ददातु भवान्निवृत्तो दास्यामीत्यब्रवीद्ब्राह्मणं त्वरितमेव दीयतामित्यब्रवीद्ब्राह्मणस्त्वरितमेव स ब्राह्मणस्यैव मुक्त्वा दक्षिणं पार्श्वमददत् ॥ 3-201-7(23785)
अथान्योष्यश्वार्थी ब्राह्मण आगच्छत् ॥ तथैव चैनमुक्त्वा वामपार्ष्णिमभ्यदादथ प्रायात्पुनरपि चान्योप्यश्वार्थी ब्राह्मण आगच्छत् त्वरितोथ तस्मै अपनह्य वामं धुर्यमददत् ॥ 3-201-8(23786)
अथ प्रायात्पुनरन्य आगच्छदश्वार्थी ब्राह्मणस्तमब्रवीदतियातो दास्यामि त्वरितमेव मे दीयतामित्यब्रवीद्ब्राह्मणस्तस्मै दत्त्वाऽश्वं रथधुरं गृह्णता व्याहृतं ब्राह्मणानां सांप्रतं नास्ति किंचिदिति ॥ 3-201-9(23787)
य एष ददाति चासूयति च तेन व्याहृतेन तथाऽवतरेत् ॥ अथ द्वाभ्यां यातव्यमिति कोऽवतरेत् ॥ 3-201-10(23788)
वसुमना अवतरेदित्यब्रवीदृषिः ॥ 3-201-11(23789)
किंकारणमित्यपृच्छदथाचष्ट नारदः ॥ अहं परिभ्रमन्वसुमनसो गृहमुपस्थितः ॥ 3-201-12(23790)
स्वस्तिवचनमासीत्पुष्परथस्य प्रयोजनेन तमहमन्वगच्छं स्वस्तिवाचितेषु ब्राह्मणेषु रथो ब्राह्मणानां दर्शितः ॥ 3-201-13(23791)
तमहं रथं प्राशंसमथ राजाऽब्रवीद्भगवतारथः प्रशस्तः ॥ एष भगवतो भगवतोरथ इति ॥ 3-201-14(23792)
अथ कदाचित्पुनरप्यहमुपस्थितः पुनरेव च रथप्रयोजनमासीत् ॥ सम्यगयमेष भगवत इत्येवं राजाऽब्रवीदिति पुनरेव च तृतीयं स्वस्तिवाचनं समभावयमथ राजा ब्राह्मणानां दर्शयन्मामभिप्रेक्ष्याब्रवीत् ॥ अथो भगवता पुष्परथस्य स्वस्तिवाचनानि सुष्ठु संभावितानि एतेन द्रोहवचनेनावतरेत् ॥ 3-201-15(23793)
अथैकेन यातव्यं स्यात्कोऽवतरेत्पुनर्नारद आह ॥ शिबिर्यायादहमवतरेयं अत्र किं कारणमित्यब्रवीत् ॥ असावहं शिविना समो नास्मि यतो] ब्राह्मणः कश्चिदेनमब्रवीत् ॥ 3-201-16(23794)
शिबे अन्नार्थ्यस्मीति तमब्रवीच्छिबिः किं क्रियतामाज्ञापयतु भवानिति ॥ 3-201-17(23795)
अथैनं ब्राह्मणोऽब्रवीत् य एष ते पुत्रो बृहद्गर्भो नाम एष प्रमातव्य इति तमेनं संस्कुरु अन्नं चोपपादय ततोऽहं प्रतीक्ष्य इति ॥ ततः पुत्रं प्रमाथ्य संस्कृत्य विधिना साधयित्वा पात्र्यामर्पयित्वा शिरसा प्रतिगृह्य ब्राह्मणममृगयत् ॥ 3-201-18(23796)
अथास्य मृगयमाणस्य कश्चिदाचष्ट एष ते ब्राह्मणो नगरं प्रविश्य दहति ते गृहं कोशागारमायुधागारं स्त्र्यगारमश्वशालां हस्तिशालां च क्रुद्ध इति ॥ 3-201-19(23797)
अथ शिबिस्तथैवाविकृतमुखवर्णो नगरं प्रविश्य ब्राह्मणं तमब्रवीत्सिद्धं भगवन्नन्नमिति ब्राह्मणो न किंचिद्व्याजहार विस्मयादधोमुखश्चासीत् ॥ 3-201-20(23798)
ततः प्रासादयद्ब्राह्मणं भगवन्भुज्यतामिति ॥ मुहूर्तादुद्वीक्ष्य शिबिमब्रवीत् ॥ 3-201-21(23799)
त्वमेवैतदशानेति तत्राह तथेति शिबिस्तथैवाविमना महित्वा कपालमभ्युद्धार्य भोक्तुमैच्छत् ॥ 3-201-22(23800)
अथास्य ब्राह्मणो हस्तमगृह्णात् ॥ अब्रवीच्चैनं जितक्रोधोसि न ते किंचिदपरित्याज्यं ब्राह्मणार्थे ब्राह्मणोऽपि तं महाभागं सभाजयत् ॥ 3-201-23(23801)
स ह्युद्वीक्षमाणः पुत्रमपश्यदग्रे तिष्ठन्तं देवकुमारमिव पुण्यगन्धान्वितमलंकृतं सर्वं च तमर्थं विधाय ब्राह्मणोऽन्तरधीयत ॥
स ह्युद्वीक्षमाणः पुत्रमपश्यदग्रे तिष्ठन्तं देवकुमारमिव पुण्यगन्धान्वितमलंकृतं सर्वंच तमर्थं विधाय ब्राह्मणोऽन्तरधीयत ॥ 3-201-24(23802)
तस्य राजर्षेर्विधाता तेनैव वेषेण परीक्षार्थमागत इतितस्मिन्नन्तर्हिते अमात्या राजानमूचुः ॥ किं प्रेप्सुना भवता इदमेवं जानता कृतमिति ॥ 3-201-25(23803)
शिबिरुवाच। 3-201-26x(2439)
नैवाहमेतद्यशसे ददानि
न चार्यहेतोर्न च भोगतृष्णया।
पापैरनासेवित एष मार्ग
इत्येवमेतत्सकलं करोमि ॥ 3-201-26(23804)
सद्भिः सदाऽध्यासितं तु प्रशस्तं
तस्मात्प्रशस्तं श्रयते मतिर्मे।
एतन्महाभाग्यवरं शिबेस्तु
तस्मादहं वेद यथावदेतत् ॥ 3-201-27(23805)

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि एकाधिकद्विशततमोऽध्यायः ॥ 201 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-201-4 आयुष्मन्तं चिरकालभोग्यम्। स्वर्गस्थानम्। पुंस्त्वमार्षम्। अवतरेत्स्वर्गात् भूमौ प्रथममिति शेषः ॥ 3-201-7 पार्श्वं रथचक्रप्रदेशस्थमश्चम् ॥ 3-201-9 अतियातोऽतिवेगवान्। अश्वचतुष्टयस्यापि दानात् धुरं स्वहस्तेनैव गृह्णता। सांप्रतं युक्तायुक्तविचारः ॥ 3-201-13 पुष्परथस् गिरिगगनसागरेष्वप्रतिषिद्धमार्गस्य प्रयोजनेन तदर्थमित्यर्थः ॥ 3-201-14 रथः स्तुत एव नतु याचितः। राजापि ममाशयं बुद्धापि रथं न दत्तवान् रथस्तुतिं चानुमोदितवानिति प्रघट्टकार्थः ॥ 3-201-15 द्रोहवचनेन अदत्त्वा वृथास्तवेन ॥ 3-201-22 महित्वा पूजयित्वा। कपालं शीर्षास्थिपात्रम् ॥ 3-201-27 यो दत्त्वा श्लाघते यश्चासूयेत् यश्चार्थिनो लिप्सितमिङ्गितैर्ज्ञात्वापि तं स्तुतिमात्रेणैव संभावयति नत्वर्थेन यश्च ब्राह्मणेनार्थितः श्रद्धाक्षमापूर्वकमदेयमपि ददाति अकर्तव्यमपि करोति ते उत्तरोत्तरं श्रेष्ठाः। तत्राप्यन्त्यो नारदादपि श्रेष्ठ इति दातुर्गुणदाम विधानपरोऽयमध्यायः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.